Tuesday, September 26, 2017

श्री बगला यंत्रराज रक्षा स्तोत्रम् - Shri Bagla Yantraraj Raksha Stotram


श्री बगला यंत्रराज रक्षा स्तोत्रम्


श्री बगला यंत्रराज रक्षा स्तोत्रम्

इस स्तोत्र में बगला मंत्र ऋषि नारद, छंद पंक्ति, देवता पीताम्बरा, ह्लीं बीजं, स्वाहा शक्ति, सं कीलक, शत्रु-विनाशक विनियोग कहा गया है तथा इस स्तोत्र के पाठ से यंत्रार्चन का फल प्राप्त होता है ।

वन्दे सकलसन्देह दावपावकमीश्वरम् ।
करुणावरुणावासं भक्तकल्परुं गुरुम् ।। १ ।।
उल्लसत्पीतविद्योति विद्योतिततनुत्रयम् ।
निगमागम सर्वस्वमीडेऽहं तन्महन्महः ।। २ ।।
ॐ पूर्वे स्थिरमायां च बगलामुखि सर्वतः ।
दुष्टानां वाचमुच्चार्य मुखं पदं तथोद्धरेत् ।। ३ ।।
स्तम्भयेति ततो जिह्वां कीलयेति समुद्धरेत् ।
बुद्धिं विनाशयेति पदं स्थिरमायामनुस्मरेत् ।। ४ ।।
प्रणवं वह्निजायां चेत्येष पैताम्बरो मनुः ।
पातु मां सर्वदा सर्व-निग्रहानुग्रहक्षमः ।। ५ ।।
कण्ठं नारद ऋषिः पातु पङ्क्तिश्छन्दोऽवतान्मुखम् ।
पीताम्बरा देवता तु हृन्मध्यमवतान्मम् ।। ६ ।।
ह्लीं बीजं स्तनयोर्मेऽव्यात् स्वाहा शक्तिश्च दन्तयोः ।
सं कीलकं तथा गुह्ये विनियोगोगोऽवताद् वपुः ।। ७ ।।
षड्दीर्घभाजा बीजेन न्यासोऽव्यान्मे करादिकम् ।
द्विपञ्चपञ्चनन्देषुदशभिर्मन्त्र वर्णकैः ।। ८ ।।
षडंगकल्पना पातु षडंगानि ह्यनुक्रमात् ।
ऐं विद्यातत्त्वं क्लीम मायातत्त्वं सौश्च शिवात्मकम् ।। ९ ।।
तत्त्वत्रयं सं बीजं च मूलं हृत्कण्ठमध्यगः ।
सुधाब्धौ हेमभूरुढचम्पकोद्यानमध्यतः ।। १० ।।
गारुडोत्पलनिर्व्यूढ स्वर्णसिंहासनोपरि ।
स्वर्णपंकजसंविष्टां त्रिनेत्रां शशिशेखराम् ।। ११ ।।
पीतालंकारवसनां मल्लीचन्दनशोभिताम् ।
सव्याभ्यां पञ्चशाखाभ्यां वज्रं जिह्वां च विभ्रतीम् ।। १२ ।।
मुद्गरं नागपाशं च दक्षिणाभ्यां मदालसाम् ।
भक्तारिविग्रहोद्योग प्रगल्भां बगलामुखीम् ।। १३ ।।
ध्यायमानस्य मे पातु शात्रवोद्द्वेषणे भृशम् ।
भूकलादलदिक्-पत्रषट्कोणं त्र्यस्रबैगैन्दुकम् ।। १४ ।।
यन्त्रं पृताम्बरं पायाद् पायात् सा माम् अविग्रहा ।
आधारशक्तिमारभ्य ज्ञानात्मान्तास्तु शक्तयः ।। १५ ।।
पीठाद्याः पान्तु पीठेऽत्र प्रथमं मां च रक्षतु ।
शान्तिशंखविशेषात्मशक्ति भूतानि पान्तु माम् ।। १६ ।।
आवाहनाद्याः पञ्चापि मुद्राश्च सुमनोजलैः ।
त्रिकोणमध्यमारभ्य पूजिता बगलामुखी ।। १७ ।।
क्रोधिनी स्तम्भिनी चापि धारिण्यश्चापि मध्यगाः ।
ओजः पूषादिपीठानि कोणाग्रेषु स्थितानि वै ।। १८ ।।
त्रिकोणबाह्यतः सिद्धनाथाद्या गुरवस्तथा ।
सिद्धनाथः सिद्धनन्दनाथः सिद्धपरेष्ठि हि ।। १९ ।।
नाथः सिद्धः श्रीकण्ठश्च नाथः सिद्धचतुष्टयम् ।
पातु मामथ षट्कोणे सुभगा भग-रुपिणी ।। २० ।।
भगोदया च भगनिपातिनी भगमालिनी ।
भगावह च मां पातु षट्कोणाग्रेषु च क्रमात् ।। २१ ।।
त्वगामा शोणितात्म च मांसात्मा मेदसात्मकः ।
रुपात्मा परमात्मा च पातु मां स्थिरविग्रहा ।। २२ ।।
अष्टपत्रेषु मूलेषु ब्राह्मी माहेश्वरी तथा ।
कौमारी वैष्णवी वाराहीन्द्राणी च तथा पुनः ।। २३ ।।
चामुण्डा च महालक्ष्मीस्तत्र मध्ये पुनर्जया ।
विजया च जयाम्बा च राजिता जृम्भिणी तथा ।। २४ ।।
स्तम्भिनी मोहिनी वश्याऽकर्षिणि अथ तदग्रके ।
असितांगी रुरुश्चण्डः क्रोधोन्मत्तकपालिनः ।
भीषणश्चापि संहार एते रक्ज़न्तु मां सदा ।। २५ ।।
ततः षोडशपत्रेषु मंगला स्तम्भिनी तथा ।
जृम्भिणी मोहिनी वश्या ज्वालासिंही वलाहका ।। २६ ।।
भूधरा कल्मषा धात्री कन्यका कालकर्षिणी ।
भान्तिका मन्दगमना भोगस्था भाविकेति च ।। २७ ।।
पातु मामथ भूसद्म दशदिक्षु दिगीश्वराः ।
इन्द्रोऽनलो यमो रक्षो वरुणो मारुतः शशी ।।
ईशाऽनन्तः स्वयम्भूश्च दशैते पान्तम मे वपुः ।। २८ ।।
वज्र शक्तिर्दण्डखङ्गौ पाशांकुशगदाः क्रमात् ।
शूलं चक्रं सरोजं च तत्तच्छस्त्राणि पान्तु माम् ।। २९ ।।
अथ च पूर्वादिचतुद्वरिषु परतः क्रमात् ।
पातु विघ्नेशवटुकौ योगिनी क्षेत्रपालकः ।। ३० ।।
गुरुत्रयं त्रिरेखासु पातु मे वपुञ्जसा ।
पुनः पीताम्बरा पातु उपचारैः प्रपूजिता ।। ३१ ।।
सांगावरणशक्तिश्च जयश्रीः पातु सर्वदा ।
वलयं वटुकादिभ्यो रक्षां कुर्वन्तु मे सदा ।। ३२ ।।
शक्तयः साधका वीराः पान्तु मे देवता इमाः ।
इत्यर्चाक्रमतः प्रोक्तं स्तोत्रं पैताम्बरं परम् ।। ३३ ।।
यः पठेत् सकृदप्येतत् सोऽर्चाफलमाप्नुयात् ।
सर्वथा कारयेत् क्षिप्रं प्रपद्यन्ते गदातुरान् ।। ३४ ।।
राजानो राजपल्याश्च पौर जानपदास्तथा ।
वशगास्तस्य जायन्ते सततं सेवका इव ।। ३५ ।।
गुरुकल्पाश्च विबुधा मूकता यान्ति तेऽग्रतः ।
स्थिरीभवति तद्-गेहे चपलानि हरिप्रिया ।। ३६ ।।
पीताम्बरांगवसनो यदि लक्षसंख्यं ,
पैताम्बरं मनुममुं प्रजपेत् नरो यः ।
हैमीं सकृन्नियमवान् विधीना जरिद्रामालां,
दधत् भवति तदवशगा त्रिलोकी ।। ३७ ।।
भवानि बगलामुखि त्रिदशकल्पवल्लि,
प्रभो कृपाजलनिधे तव चरणधूतबाधाखिलः ।
सुरासुरनरादिक सकलभक्तभाग्यप्रदे,
त्वदंघ्रिसरसीरुहद्वयमहं तु ध्याये सदा ।। ३८ ।।
त्वमम्ब जगतां जनिस्थितिविनाशबीं,
निज प्रकाशबहुलद्युति भक्तहृन्मध्यगा ।
त्रयीमनुसुपुजिता हरिहरादिवृन्दारकै,
रनुक्षणमनुक्षणं मयि शिवे क्षणं वीक्ष्यताम् ।। ३९ ।।
शिवे तव तनूमहं हरिहराद्यगम्यां पराम्,
निखिलतापप्रत्यूह हृद्दयाभावयुक्तां स्मरे ।
विदारय विचूर्णय ग्लपय शोषय स्तम्भय,
प्रणोदय विरोधय प्रविलय प्रबद्धारीणाम् ।। ४० ।।
क्व पार्वती कूपालसन् मयि कटाक्षपातं मनाग् ।
अनाकुलतया क्षणं क्ज़िप विपक्ष-संक्षोभिणि ।
यदीक्षणपथं गतः सकृदपि प्रभुः,
कश्चन् स्फुटं मय वशंवदा भवतु तेन पीताम्बरे ।। ४१ ।।
ॐ नमो भगवते महारुद्राय हुं फट् स्वाहा । 
इति भैरव मन्त्र । 
इति अथर्वणरहस्ये बगलामुख्या अर्चाक्रमस्तोत्रम् ।।

माता महाकाली शरणम् 


No comments: