Tuesday, September 26, 2017

श्री बगला यंत्रराज रक्षा स्तोत्रम् - Shri Bagla Yantraraj Raksha Stotram


श्री बगला यंत्रराज रक्षा स्तोत्रम्


श्री बगला यंत्रराज रक्षा स्तोत्रम्

इस स्तोत्र में बगला मंत्र ऋषि नारद, छंद पंक्ति, देवता पीताम्बरा, ह्लीं बीजं, स्वाहा शक्ति, सं कीलक, शत्रु-विनाशक विनियोग कहा गया है तथा इस स्तोत्र के पाठ से यंत्रार्चन का फल प्राप्त होता है ।

वन्दे सकलसन्देह दावपावकमीश्वरम् ।
करुणावरुणावासं भक्तकल्परुं गुरुम् ।। १ ।।
उल्लसत्पीतविद्योति विद्योतिततनुत्रयम् ।
निगमागम सर्वस्वमीडेऽहं तन्महन्महः ।। २ ।।
ॐ पूर्वे स्थिरमायां च बगलामुखि सर्वतः ।
दुष्टानां वाचमुच्चार्य मुखं पदं तथोद्धरेत् ।। ३ ।।
स्तम्भयेति ततो जिह्वां कीलयेति समुद्धरेत् ।
बुद्धिं विनाशयेति पदं स्थिरमायामनुस्मरेत् ।। ४ ।।
प्रणवं वह्निजायां चेत्येष पैताम्बरो मनुः ।
पातु मां सर्वदा सर्व-निग्रहानुग्रहक्षमः ।। ५ ।।
कण्ठं नारद ऋषिः पातु पङ्क्तिश्छन्दोऽवतान्मुखम् ।
पीताम्बरा देवता तु हृन्मध्यमवतान्मम् ।। ६ ।।
ह्लीं बीजं स्तनयोर्मेऽव्यात् स्वाहा शक्तिश्च दन्तयोः ।
सं कीलकं तथा गुह्ये विनियोगोगोऽवताद् वपुः ।। ७ ।।
षड्दीर्घभाजा बीजेन न्यासोऽव्यान्मे करादिकम् ।
द्विपञ्चपञ्चनन्देषुदशभिर्मन्त्र वर्णकैः ।। ८ ।।
षडंगकल्पना पातु षडंगानि ह्यनुक्रमात् ।
ऐं विद्यातत्त्वं क्लीम मायातत्त्वं सौश्च शिवात्मकम् ।। ९ ।।
तत्त्वत्रयं सं बीजं च मूलं हृत्कण्ठमध्यगः ।
सुधाब्धौ हेमभूरुढचम्पकोद्यानमध्यतः ।। १० ।।
गारुडोत्पलनिर्व्यूढ स्वर्णसिंहासनोपरि ।
स्वर्णपंकजसंविष्टां त्रिनेत्रां शशिशेखराम् ।। ११ ।।
पीतालंकारवसनां मल्लीचन्दनशोभिताम् ।
सव्याभ्यां पञ्चशाखाभ्यां वज्रं जिह्वां च विभ्रतीम् ।। १२ ।।
मुद्गरं नागपाशं च दक्षिणाभ्यां मदालसाम् ।
भक्तारिविग्रहोद्योग प्रगल्भां बगलामुखीम् ।। १३ ।।
ध्यायमानस्य मे पातु शात्रवोद्द्वेषणे भृशम् ।
भूकलादलदिक्-पत्रषट्कोणं त्र्यस्रबैगैन्दुकम् ।। १४ ।।
यन्त्रं पृताम्बरं पायाद् पायात् सा माम् अविग्रहा ।
आधारशक्तिमारभ्य ज्ञानात्मान्तास्तु शक्तयः ।। १५ ।।
पीठाद्याः पान्तु पीठेऽत्र प्रथमं मां च रक्षतु ।
शान्तिशंखविशेषात्मशक्ति भूतानि पान्तु माम् ।। १६ ।।
आवाहनाद्याः पञ्चापि मुद्राश्च सुमनोजलैः ।
त्रिकोणमध्यमारभ्य पूजिता बगलामुखी ।। १७ ।।
क्रोधिनी स्तम्भिनी चापि धारिण्यश्चापि मध्यगाः ।
ओजः पूषादिपीठानि कोणाग्रेषु स्थितानि वै ।। १८ ।।
त्रिकोणबाह्यतः सिद्धनाथाद्या गुरवस्तथा ।
सिद्धनाथः सिद्धनन्दनाथः सिद्धपरेष्ठि हि ।। १९ ।।
नाथः सिद्धः श्रीकण्ठश्च नाथः सिद्धचतुष्टयम् ।
पातु मामथ षट्कोणे सुभगा भग-रुपिणी ।। २० ।।
भगोदया च भगनिपातिनी भगमालिनी ।
भगावह च मां पातु षट्कोणाग्रेषु च क्रमात् ।। २१ ।।
त्वगामा शोणितात्म च मांसात्मा मेदसात्मकः ।
रुपात्मा परमात्मा च पातु मां स्थिरविग्रहा ।। २२ ।।
अष्टपत्रेषु मूलेषु ब्राह्मी माहेश्वरी तथा ।
कौमारी वैष्णवी वाराहीन्द्राणी च तथा पुनः ।। २३ ।।
चामुण्डा च महालक्ष्मीस्तत्र मध्ये पुनर्जया ।
विजया च जयाम्बा च राजिता जृम्भिणी तथा ।। २४ ।।
स्तम्भिनी मोहिनी वश्याऽकर्षिणि अथ तदग्रके ।
असितांगी रुरुश्चण्डः क्रोधोन्मत्तकपालिनः ।
भीषणश्चापि संहार एते रक्ज़न्तु मां सदा ।। २५ ।।
ततः षोडशपत्रेषु मंगला स्तम्भिनी तथा ।
जृम्भिणी मोहिनी वश्या ज्वालासिंही वलाहका ।। २६ ।।
भूधरा कल्मषा धात्री कन्यका कालकर्षिणी ।
भान्तिका मन्दगमना भोगस्था भाविकेति च ।। २७ ।।
पातु मामथ भूसद्म दशदिक्षु दिगीश्वराः ।
इन्द्रोऽनलो यमो रक्षो वरुणो मारुतः शशी ।।
ईशाऽनन्तः स्वयम्भूश्च दशैते पान्तम मे वपुः ।। २८ ।।
वज्र शक्तिर्दण्डखङ्गौ पाशांकुशगदाः क्रमात् ।
शूलं चक्रं सरोजं च तत्तच्छस्त्राणि पान्तु माम् ।। २९ ।।
अथ च पूर्वादिचतुद्वरिषु परतः क्रमात् ।
पातु विघ्नेशवटुकौ योगिनी क्षेत्रपालकः ।। ३० ।।
गुरुत्रयं त्रिरेखासु पातु मे वपुञ्जसा ।
पुनः पीताम्बरा पातु उपचारैः प्रपूजिता ।। ३१ ।।
सांगावरणशक्तिश्च जयश्रीः पातु सर्वदा ।
वलयं वटुकादिभ्यो रक्षां कुर्वन्तु मे सदा ।। ३२ ।।
शक्तयः साधका वीराः पान्तु मे देवता इमाः ।
इत्यर्चाक्रमतः प्रोक्तं स्तोत्रं पैताम्बरं परम् ।। ३३ ।।
यः पठेत् सकृदप्येतत् सोऽर्चाफलमाप्नुयात् ।
सर्वथा कारयेत् क्षिप्रं प्रपद्यन्ते गदातुरान् ।। ३४ ।।
राजानो राजपल्याश्च पौर जानपदास्तथा ।
वशगास्तस्य जायन्ते सततं सेवका इव ।। ३५ ।।
गुरुकल्पाश्च विबुधा मूकता यान्ति तेऽग्रतः ।
स्थिरीभवति तद्-गेहे चपलानि हरिप्रिया ।। ३६ ।।
पीताम्बरांगवसनो यदि लक्षसंख्यं ,
पैताम्बरं मनुममुं प्रजपेत् नरो यः ।
हैमीं सकृन्नियमवान् विधीना जरिद्रामालां,
दधत् भवति तदवशगा त्रिलोकी ।। ३७ ।।
भवानि बगलामुखि त्रिदशकल्पवल्लि,
प्रभो कृपाजलनिधे तव चरणधूतबाधाखिलः ।
सुरासुरनरादिक सकलभक्तभाग्यप्रदे,
त्वदंघ्रिसरसीरुहद्वयमहं तु ध्याये सदा ।। ३८ ।।
त्वमम्ब जगतां जनिस्थितिविनाशबीं,
निज प्रकाशबहुलद्युति भक्तहृन्मध्यगा ।
त्रयीमनुसुपुजिता हरिहरादिवृन्दारकै,
रनुक्षणमनुक्षणं मयि शिवे क्षणं वीक्ष्यताम् ।। ३९ ।।
शिवे तव तनूमहं हरिहराद्यगम्यां पराम्,
निखिलतापप्रत्यूह हृद्दयाभावयुक्तां स्मरे ।
विदारय विचूर्णय ग्लपय शोषय स्तम्भय,
प्रणोदय विरोधय प्रविलय प्रबद्धारीणाम् ।। ४० ।।
क्व पार्वती कूपालसन् मयि कटाक्षपातं मनाग् ।
अनाकुलतया क्षणं क्ज़िप विपक्ष-संक्षोभिणि ।
यदीक्षणपथं गतः सकृदपि प्रभुः,
कश्चन् स्फुटं मय वशंवदा भवतु तेन पीताम्बरे ।। ४१ ।।
ॐ नमो भगवते महारुद्राय हुं फट् स्वाहा । 
इति भैरव मन्त्र । 
इति अथर्वणरहस्ये बगलामुख्या अर्चाक्रमस्तोत्रम् ।।

माता महाकाली शरणम् 


श्री बगला दिग्बंधन रक्षा स्तोत्रम् - Sri Bagla Digbandhan Raksha Stotra

श्री बगला दिग्बंधन रक्षा स्तोत्रम्


श्री बगला दिग्बंधन रक्षा स्तोत्रम्

ब्रह्मास्त्र प्रवक्ष्यामि बगलां नारदसेविताम् ।
देवगन्धर्वयक्षादि सेवितपादपंकजाम् ।।


त्रैलोक्य-स्तम्भिनी विद्या सर्व-शत्रु-वशंकरी आकर्षणकरी उच्चाटनकरी विद्वेषणकरी जारणकरी मारणकरी जृम्भणकरी स्तम्भनकरी ब्रह्मास्त्रेण सर्व-वश्यं कुरु कुरु ॐ ह्लां बगलामुखि हुं फट् स्वाहा ।

ॐ ह्लां द्राविणि-द्राविणि भ्रामिणि एहि एहि सर्वभूतान् उच्चाटय-उच्चाटय सर्व-दुष्टान निवारय-निवारय भूत प्रेत पिशाच डाकिनी शाकिनीः छिन्धि-छिन्धि खड्गेन भिन्धि-भिन्धि मुद्गरेण संमारय संमारय, दुष्टान् भक्षय-भक्षय, ससैन्यं भुपर्ति कीलय कीलय मुखस्तम्भनं कुरु-कुरु ॐ ह्लां बगलामुखि हुं फट् स्वाहा ।

आत्मा रक्षा ब्रह्म रक्षा विष्णु रक्षा रुद्र रक्षा इन्द्र रक्षा अग्नि रक्षा यम रक्षा नैऋत रक्षा वरुण रक्षा वायु रक्षा कुबेर रक्षा ईशान रक्षा सर्व रक्षा भुत-प्रेत-पिशाच-डाकिनी-शाकिनी रक्षा अग्नि-वैताल रक्षा गण गन्धर्व रक्षा तस्मात् सर्व-रक्षा कुरु-कुरु, व्याघ्र-गज-सिंह रक्षा रणतस्कर रक्षा तस्मात् सर्व बन्धयामि ॐ ह्लां बगलामुखि हुं फट् स्वाहा ।

ॐ ह्लीं भो बगलामुखि सर्वदुष्टानां वाचं मुखं पदं स्तम्भय जिह्वां कीलय बुद्धिं विनाशय ह्लीं ॐ स्वाहा ।
ॐ ऐं ह्रीं श्रीं बगलामुखि एहि-एहि पूर्वदिशायां बन्धय बन्धय इन्द्रस्य मुखं स्तम्भय स्तम्भय इन्द्रशस्त्रं निवारय निवारय सर्वसैन्यं कीलय कीलय पच पच मथ मथ मर्दय मर्दय ॐ ह्लीं वश्यं कुरु-कुरु ॐ ह्लां बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ह्रीं श्रीं पीताम्बरे एहि-एहि अग्निदिशायां बन्धय बन्धय अग्निमुखं स्तम्भय स्तम्भय अग्निशस्त्रं निवारय निवारय सर्वसैन्यं कीलय कीलय पच पच मथ मथ मर्दय मर्दय ॐ ह्लीं अग्निस्तम्भं कुरु-कुरु ॐ ह्लां बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ह्रीं श्रीं महिषमर्दिनि एहि-एहि दक्षिणदिशायां बन्धय बन्धय यमस्य मुखं स्तम्भय स्तम्भय यमशस्त्रं निवारय निवारय सर्वसैन्यं कीलय कीलय पच पच मथ मथ मर्दय मर्दय ॐ ह्लीं हृज्जृम्भणं कुरु-कुरु ॐ ह्लां बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ह्रीं श्रीं चण्डिके एहि-एहि नैऋत्यदिशायां बन्धय बन्धय नैऋत्य मुखं स्तम्भय स्तम्भय नैऋत्यशस्त्रं निवारय निवारय सर्वसैन्यं कीलय कीलय पच पच मथ मथ मर्दय मर्दय ॐ ह्लीं वश्यं कुरु-कुरु ॐ ह्लां बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ह्रीं श्रीं करालनयने एहि-एहि पश्चिमदिशायां बन्धय बन्धय वरुण मुखं स्तम्भय स्तम्भय वरुणशस्त्रं निवारय निवारय सर्वसैन्यं कीलय कीलय पच पच मथ मथ मर्दय मर्दय ॐ ह्लीं वश्यं कुरु-कुरु ॐ ह्लां बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ह्रीं श्रीं कालिके एहि-एहि वायव्यदिशायां बन्धय बन्धय वायु मुखं स्तम्भय स्तम्भय वायुशस्त्रं निवारय निवारय सर्वसैन्यं कीलय कीलय पच पच मथ मथ मर्दय मर्दय ॐ ह्लीं वश्यं कुरु-कुरु ॐ ह्लां बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ह्रीं श्रीं महा-त्रिपुर-सुन्दरि एहि-एहि उत्तरदिशायां बन्धय बन्धय कुबेर मुखं स्तम्भय स्तम्भय कुबेरशस्त्रं निवारय निवारय सर्वसैन्यं कीलय कीलय पच पच मथ मथ मर्दय मर्दय ॐ ह्लीं वश्यं कुरु-कुरु ॐ ह्लां बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ऐं महा-भैरवि एहि-एहि ईशानदिशायां बन्धय बन्धय ईशान मुखं स्तम्भय स्तम्भय ईशानशस्त्रं निवारय निवारय सर्वसैन्यं कीलय कीलय पच पच मथ मथ मर्दय मर्दय ॐ ह्लीं वश्यं कुरु-कुरु ॐ ह्लां बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ऐं गांगेश्वरि एहि-एहि ऊर्ध्वदिशायां बन्धय बन्धय ब्रह्माणं चतुर्मुखं मुखं स्तम्भय स्तम्भय ब्रह्मशस्त्रं निवारय निवारय सर्वसैन्यं कीलय कीलय पच पच मथ मथ मर्दय मर्दय ॐ ह्लीं वश्यं कुरु-कुरु ॐ ह्लां बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ऐं ललितादेवि एहि-एहि अन्तरिक्ष दिशायां बन्धय बन्धय विष्णु मुखं स्तम्भय स्तम्भय विष्णुशस्त्रं निवारय निवारय सर्वसैन्यं कीलय कीलय पच पच मथ मथ मर्दय मर्दय ॐ ह्लीं वश्यं कुरु-कुरु ॐ ह्लां बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ऐं चक्रधारिणि एहि-एहि अधो दिशायां बन्धय बन्धय वासुकि मुखं स्तम्भय स्तम्भय वासुकिशस्त्रं निवारय निवारय सर्वसैन्यं कीलय कीलय पच पच मथ मथ मर्दय मर्दय ॐ ह्लीं वश्यं कुरु-कुरु ॐ ह्लां बगलामुखि हुं फट् स्वाहा ।

दुष्टमन्त्रं दुष्टयन्त्रं दुष्टपुरुषं बन्धयामि शिखां बन्ध ललाटं बन्ध भ्रुवौ बन्ध नेत्रे बन्ध कर्णौ बन्ध नसौ बन्ध ओष्ठौ बन्ध अधरौ बन्ध जिह्वा बन्ध रसनां बन्ध बुद्धिं बन्ध कण्ठं बन्ध हृदयं बन्ध कुक्षिं बन्ध हस्तौ बन्ध नाभिं बन्ध लिंगं बन्ध गुह्यं बन्ध ऊरू बन्ध जानू बन्ध हंघे बन्ध गुल्फौ बन्ध पादौ बन्ध स्वर्ग मृत्यु पातालं बन्ध बन्ध रक्ष रक्ष ॐ ह्लीं बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ऐं ॐ ह्लीं बगलामुखि इन्द्राय सुराधिपतये ऐरावतवाहनाय स्वेतवर्णाय वज्रहस्ताय सपरिवाराय एहि एहि मम विघ्नान् निरासय निरासय विभञ्जय विभञ्जय ॐ ह्लीं अमुकस्य मुखं स्तम्भय स्तम्भय ॐ ह्लीं अमुकस्य मुखं भेदय भेदय ॐ ह्लीं वश्यं कुरु ॐ ह्लीं बगलामुखि हुं फट् स्वाहा ।
ॐ ऐं ऐं ॐ ह्लीं बगलामुखि अग्नये तेजोधिपतये छागवाहनाय रक्तवर्णाय शक्तिहस्ताय सपरिवाराय एहि एहि मम विघ्नान् विभञ्जय विभञ्जय ॐ ह्लीं अमुकस्य मुखं स्तम्भय स्तम्भय ॐ ह्लीं अमुकस्य मुखं भेदय भेदय ॐ ह्लीं वश्यं कुरु ॐ ह्लीं बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ऐं ॐ ह्लीं बगलामुखि यमाय प्रेताधिपतये महिषवाहनाय कृष्णवर्णाय दण्डहस्ताय सपरिवाराय एहि एहि मम विघ्नान् विभञ्जय विभञ्जय ॐ ह्लीं अमुकस्य मुखं स्तम्भय स्तम्भय ॐ ह्लीं अमुकस्य मुखं भेदय भेदय ॐ ह्लीं वश्यं कुरु ॐ ह्लीं बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ऐं ॐ ह्लीं बगलामुखि वरूणाय जलाधिपतये मकरवाहनाय श्वेतवर्णाय पाशहस्ताय सपरिवाराय एहि एहि मम विघ्नान् विभञ्जय विभञ्जय ॐ ह्लीं अमुकस्य मुखं स्तम्भय स्तम्भय ॐ ह्लीं अमुकस्य मुखं भेदय भेदय ॐ ह्लीं वश्यं कुरु ॐ ह्लीं बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ऐं ॐ ह्लीं बगलामुखि वायव्याय मृगवाहनाय धूम्रवर्णाय ध्वजाहस्ताय सपरिवाराय एहि एहि मम विघ्नान् विभञ्जय विभञ्जय ॐ ह्लीं अमुकस्य मुखं स्तम्भय स्तम्भय ॐ ह्लीं अमुकस्य मुखं भेदय भेदय ॐ ह्लीं वश्यं कुरु ॐ ह्लीं बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ऐं ॐ ह्लीं बगलामुखि ईशानाय भूताधिपतये वृषवाहनाय कर्पूरवर्णाय त्रिशूलहस्ताय सपरिवाराय एहि एहि मम विघ्नान् विभञ्जय विभञ्जय ॐ ह्लीं अमुकस्य मुखं स्तम्भय स्तम्भय ॐ ह्लीं अमुकस्य मुखं भेदय भेदय ॐ ह्लीं वश्यं कुरु ॐ ह्लीं बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ऐं ॐ ह्लीं बगलामुखि ब्रह्मणे ऊर्ध्वदिग्लोकपालाधिपतये हंसवाहनाय श्वेतवर्णाय कमण्डलुहस्ताय सपरिवाराय एहि एहि मम विघ्नान् विभञ्जय विभञ्जय ॐ ह्लीं अमुकस्य मुखं स्तम्भय स्तम्भय ॐ ह्लीं अमुकस्य मुखं भेदय भेदय ॐ ह्लीं वश्यं कुरु ॐ ह्लीं बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ऐं ॐ ह्लीं बगलामुखि वैष्णवीसहिताय नागाधिपतये गरुडवाहनाय श्यामवर्णाय चक्रहस्ताय सपरिवाराय एहि एहि मम विघ्नान् विभञ्जय विभञ्जय ॐ ह्लीं अमुकस्य मुखं स्तम्भय स्तम्भय ॐ ह्लीं अमुकस्य मुखं भेदय भेदय ॐ ह्लीं वश्यं कुरु ॐ ह्लीं बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ऐं ॐ ह्लीं बगलामुखि रविमण्डलमध्याद् अवतर अवतर सान्निध्यं कुरु-कुरु । ॐ ऐं परमेश्वरीम् आवाहयामि नमः । मम सान्निध्यं कुरु कुरु । ॐ ह्लीं बगलामुखि हुं फट् स्वाहा ।

ॐ ऐं ह्रीं श्रीं ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः बगले चतुर्भुजे मुद्गरशरसंयुक्ते दक्षिणे जिह्वावज्रसंयुक्ते वामे श्रीमहाविद्ये पीतवस्त्रे पञ्चमहाप्रेताधिरुढे सिद्धविद्याधरवन्दिते ब्रह्म-विष्णु-रुद्र-पूजिते आनन्द-सवरुपे विश्व-सृष्टि-स्वरुपे महा-भैरव-रुप धारिणि स्वर्ग-मृत्यु-पाताल-स्तम्भिनी वाममार्गाश्रिते श्रीबगले ब्रह्म-विष्णु-रुद्र-रुप-निर्मिते षोडश-कला-परिपूरिते दानव-रुप सहस्रादित्य-शोभिते त्रिवर्णे एहि एहि मम हृदयं प्रवेशय प्रवेशय शत्रुमुखं स्तम्भय स्तम्भय अन्य-भूत-पिशाचान् खादय-खादय अरि-सैन्यं विदारय-विदारय पर-विद्यां पर-चक्रं छेदय-छेदय वीरचक्रं धनुषां संभारय-संभारय त्रिशूलेन् छिन्ध-छिन्धि पाशेन् बन्धय-बन्धय भूपतिं वश्यं कुरु-कुरु सम्मोहय-सम्मोहय विना जाप्येन सिद्धय-सिद्धय विना मन्त्रेण सिद्धि कुरु-कुरु सकलदुष्टान् घातय-घातय मम त्रैलोक्यं वश्यं कुरु-कुरु सकल-कुल-राक्षसान् दह-दह पच-पच मथ-मथ हन-हन मर्दय-मर्दय मारय-मारय भक्षय-भक्षय मां रक्ष-रक्ष विस्फोटकादीन् नाशय-नाशय ॐ ह्लीं विष-ज्वरं नाशय-नाशय विषं निर्विषं कुरु-कुरु ॐ ह्लीं बगलामुखि हुं फट् स्वाहा ।

ॐ क्लीं क्लीं ह्लीं बगलामुखि सर्व-दुष्टानां वाचं मुखं पदं स्तम्भय स्तम्भय जिह्वां कीलय कीलय बुद्धिं विनाशय विनाशय क्लीं क्लीं ह्लीं स्वाहा ।

ॐ बगलामुखि स्वाहा ।
ॐ पीताम्बरे स्वाहा ।
ॐ त्रिपुरभैरवि स्वाहा ।
ॐ विजयायै स्वाहा ।
ॐ जयायै स्वाहा ।
ॐ शारदायै स्वाहा ।
ॐ सुरेश्वर्यै स्वाहा ।
ॐ रुद्राण्यै स्वाहा ।
ॐ विन्ध्यवासिन्यै स्वाहा ।
ॐ त्रिपुरसुन्दर्यै स्वाहा ।
ॐ दुर्गायै स्वाहा ।
ॐ भवान्यै स्वाहा ।
ॐ भुवनेश्वर्यै स्वाहा ।
ॐ महा-मायायै स्वाहा ।
ॐ कमल-लोचनायै स्वाहा ।
ॐ तारायै स्वाहा ।
ॐ योगिन्यै स्वाहा ।
ॐ कौमार्यै स्वाहा ।
ॐ शिवायै स्वाहा ।
ॐ इन्द्राण्यै स्वाहा ।
ॐ ह्लीं बगलामुखि हुं फट् स्वाहा ।
ॐ ह्लीं शिव-तत्त्व-व्यापिनि बगलामुखि स्वाहा ।
ॐ ह्लीं माया-तत्त्व-व्यापिनि बगलामुखि हृदयाय स्वाहा ।
ॐ ह्लीं विद्या-तत्त्व-व्यापिनि बगलामुखि शिरसे स्वाहा ।
ॐ ह्लीं बगलामुखि हुं फट् स्वाहा ।
ॐ ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः शिरो रक्षतु बगलामुखि रक्ष रक्ष स्वाहा ।
ॐ ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः भालं रक्षतु पीताम्बरे रक्ष रक्ष स्वाहा ।
ॐ ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः नेत्रे रक्षतु महा-भैरवि रक्ष रक्ष स्वाहा ।
ॐ ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः कर्णौ रक्षतु विजये रक्ष रक्ष स्वाहा ।
ॐ ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः नसौ रक्षतु जये रक्ष रक्ष स्वाहा ।
ॐ ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः वदनं रक्षतु शारदे विन्ध्यवासिनि रक्ष रक्ष स्वाहा ।
ॐ ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः बाहू त्रिपुर-सुन्दरि रक्ष रक्ष स्वाहा ।
ॐ ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः करौ रक्षतु दुर्गे रक्ष रक्ष स्वाहा ।
ॐ ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः हृदयं रक्षतु भवानी रक्ष रक्ष स्वाहा ।
ॐ ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः उदरं रक्षतु भुवनेश्वरि रक्ष रक्ष स्वाहा ।
ॐ ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः नाभिं रक्षतु महामाये रक्ष रक्ष स्वाहा ।
ॐ ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः कटिं रक्षतु कमललोचने रक्ष रक्ष स्वाहा ।
ॐ ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः उदरं रक्षतु तारे रक्ष रक्ष स्वाहा ।
ॐ ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः सर्वांगं रक्षतु महातारे रक्ष रक्ष स्वाहा ।
ॐ ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः अग्रे रक्षतु योगिनि रक्ष रक्ष स्वाहा ।
ॐ ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः पृष्ठे रक्षतु कौमारि रक्ष रक्ष स्वाहा ।
ॐ ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः दक्षिणपार्श्वे रक्षतु शिवे रक्ष रक्ष स्वाहा ।
ॐ ह्लां ह्लीं ह्लूं ह्लैं ह्लौं ह्लः वामपार्श्वे रक्षतु इन्द्राणि रक्ष रक्ष स्वाहा ।

ॐ गं गां गूं गैं गौं गः गणपतये सर्वजनमुखस्तम्भनाय आगच्छ आगच्छ मम विघ्नान् नाशय नाशय दुष्टं खादय खादय दुष्टस्य मुखं स्तम्भय स्तम्भय अकालमृत्युं हन हन भो गणाधिपते ॐ ह्लीम वश्यं कुरु कुरु ॐ ह्लीं बगलामुखि हुं फट् स्वाहा ।

अष्टौ ब्राह्मणान् ग्राहयित्वा सिद्धिर्भवति नान्यथा ।
भ्रूयुग्मं तु पठेत नात्र कार्यं संख्याविचारणम् ।।
यन्त्रिणां बगला राज्ञी सुराणां बगलामुखि ।
शूराणां बगलेश्वरी ज्ञानिनां मोक्षदायिनी ।।
एतत् स्तोत्रं पठेन् नित्यं त्रिसन्ध्यं बगलामुखि ।
विना जाप्येन सिद्धयेत साधकस्य न संशयः ।।
निशायां पायसतिलाज्यहोमं नित्यं तु कारयेत् ।
सिद्धयन्ति सर्वकार्याणि देवी तुष्टा सदा भवेत् ।।
मासमेकं पठेत् नित्यं त्रैलोक्ये चातिदुर्लभम् ।
सर्व-सिद्धिमवाप्नोति देव्या लोकं स गच्छति ।।

।। श्री बगलामुखिकल्पे वीरतन्त्रे बगलासिद्धिप्रयोगः ।।

माता महाकाली शरणम् 

ब्रह्मास्त्र महा-विद्या श्रीबगला स्तोत्र - Brahmastra Maha Viddya Bagla Stotra







विनियोगः- ॐ अस्य श्रीब्रह्मास्त्र-महा-विद्या-श्रीबगला-मुखी स्तोत्रस्य श्रीनारद ऋषिः, 
त्रिष्टुप् छन्दः, 
श्री बगला-मुखी देवता, 
मम सन्निहिता-नामसन्निहितानां विरोधिनां दुष्टानां वाङ्मुख-बुद्धिनां स्तम्भनार्थं श्रीमहा-माया-बगला मुखी-वर-प्रसाद सिद्धयर्थं जपे (पाठे) विनियोगः ।


ऋष्यादि-न्यासः- श्रीनारद ऋषये नमः शिरसि, 
त्रिष्टुप छन्दसे नमः मुखे, 
श्री बगला-मुखी देवतायै नमः हृदि, 
मम सन्निहिता-नामसन्निहितानां विरोधिनां दुष्टानां वाङ्मुख-बुद्धिनां स्तम्भनार्थं श्रीमहा-माया-बगला मुखी-वर-प्रसाद सिद्धयर्थं जपे (पाठे) विनियोगाय नमः सर्वांगे ।

कर-न्यास:

ॐ ह्लीं अंगुष्ठाभ्यां नमः हृदयाय नमः
ॐ बगलामुखि तर्जनीभ्यां नमः शिरसे स्वाहा
ॐ सर्व-दुष्टानां मध्यमाभ्यां नमः शिखायै वषट्
ॐ वाचं मुखं पदं स्तम्भय अनामिकाभ्यां नमः कवचाय हुं
ॐ जिह्वां कीलय कनिष्ठिकाभ्यां नमः नेत्र-त्रयाय वौषट्
ॐ बुद्धिं विनाशय ह्लीं ॐ स्वाहा करतल-कर-पृष्ठाभ्यां नमः अस्त्राय फट्

ध्यानः- हाथ में पीले फूल, पीले अक्षत और जल लेकर ‘ध्यान’ करे: -

सौवर्णासन संस्थिता त्रिनयनां पीतांशुकोल्लासिनीम्,
हेमाभांगरुचिं शशांक मुकुटां सच्चम्पक स्रग्युताम् ।
हस्तैर्मुद्गर पाश वज्र रसनाः संबिभ्रतीं भूषणैर्व्याप्तांगीं,
बगलामुखीं त्रिजगतां संस्तम्भिनीं चिन्तयेत् ।।

जप मन्त्रः-

ॐ ह्ल्रीं (ह्लीं) बगलामुखि सर्वदुष्टानां वाचं मुखं पदं स्तंभय जिह्वां कीलय बुद्धिं विनाशय ह्ल्रीं (ह्लीं) ॐ स्वाहा

।। स्तोत्रम ।।

मध्ये सुधाब्धि-मणि-मण्डप-रत्न-वेद्यां, सिंहासनो-परि-गतां परिपीत-वर्णाम् ।
पीताम्बराभरण-माल्य-विभूषितांगीं, देवीं स्मरामि धृत-मुद्-गर-वैरि-जिह्वाम् ।। १ ।।
जिह्वाग्रमादाय करेण देवीं, वामेन शत्रून् परि-पीडयन्तीम् ।
गदाभिघातेन च दक्षिणेन, पीताम्बराढ्यां द्विभुजां नमामि ।। २ ।।
त्रिशूल-धारिणीमम्बां सर्वसौभाग्यदायिनीम् ।
सर्वश्रृंगारवेशाढ्यां देवीं ध्यात्वा प्रपूजयेत् ।। ३ ।।
पीतवस्त्रां त्रिनेत्रां च द्विभुजां हाटकोज्ज्वलाम् ।
शिलापर्वतहस्तां च स्मरेत् तां बगलामुखीम् ।। ४ ।।
रिपुजिह्वां देवीं पीतपुष्पविभूषिताम् ।
वैरिनिर्दलनार्थाय स्मरेत् तां बगलामुखीम् ।। ५ ।।
गम्भीरा च मदोन्मत्तां स्वर्ण-कान्ति-समप्रभाम् ।
चतुर्भुजां त्रिनेत्रां च कमलासन-संस्थिताम् ।। ६ ।।
मुद्गरं दक्षिणे पाशं वामे जिह्वां च वज्रकम् ।
पीताम्बरधरां सान्द्र-दृढ़-पीन-पयोधराम् ।। ७ ।।
हेम-कुण्डल-भूषां च पीत चन्द्रार्द्ध-शेखरां ।
पीत-भूषण-पीतांगीं स्वर्ण-सिंहासने स्थिताम् ।। ८ ।।
एवं ध्यात्वा जपेत् स्तोत्रमेकाग्रकृतमानसः ।
सर्व-सिद्धिमवाप्नोति मन्त्र-ध्यानपुरः सरम् ।। ९ ।।
आराध्या जगदम्ब दिव्यकविभिः सामाजिकैः स्तोतृभिः ।
माल्यैश्चन्दन-कुंकुमैः परिमलैरभ्यर्चिता सादरात् ।।
सम्यङ्न्यासिसमस्तभूतनिवहे सौभाग्यशोभाप्रदे ।
श्रीमुग्धे बगले प्रसीद विमले दुःखापहे पाहि माम् ।। १० ।।
आनन्दकारिणी देवी रिपुस्तम्भनकारिणी ।
मदनोन्मादिनी चैव प्रीतिस्तम्भनकारिणी ।। ११ ।।
महाविद्या महामाया साधकस्य फलप्रदा ।
यस्याः स्मरणमात्रेण त्रैलोक्यं स्तम्भयेत् क्षणात् ।। १२ ।।
वामे पाशांकुशौ शक्तिं तस्याधस्ताद् वरं शुभम् ।
दक्षिणे क्रमतो वज्रं गदा-जिह्वाऽँयानि च ।। १३ ।।
विभ्रतीं संसमरेन्नित्यं पीतमाल्यानुलेपनाम् ।
पीताम्बरधरां देवीं ब्रह्मादिसुरवन्दिताम् ।। १४ ।।
केयूरांगदकुण्डलभूषां बालार्कद्युतिरञ्जितवेषाम् ।
तरुणादित्यसमानप्रतिमां कौशेययांशुकबद्धनितम्बाम् ।। १५ ।।
कल्पद्रुमतलनिहितशिलायां प्रमुदितचित्तौल्लासदलकान्ताम् ।
पञ्चप्रेतनिकेतनबद्धां भक्तजनेभ्यो वितरणशीलाम् ।। १६ ।।
एवं विधां तां बगलां ध्यात्वा मनसि साधकः ।
सर्व-सम्पत् समृद्धयर्थं स्तोत्रमेतदुदीरयेत् ।। १७ ।।
चलत्-कनक-कुण्डलोल्लसित-चारु-गण्ड-स्थलाम् ।
लसत्-कनक-चम्पक-द्युतिमदिन्दु-बिम्बाननाम् ।।
गदा-हत-विपक्षकां कलित-लोल-जिह्वां चलाम् ।
स्मरामि बगला-मुखीं विमुख-वाङ्-मनस-स्तम्भिनीम् ।। १८ ।।
पीयूषोदधि-मध्य-चारु-विलसद्-रत्नोज्जवले मण्डपे ।
तत्-सिंहासन-मूल-पातित-रिपुं प्रेतासनाध्यासिनीम् ।।
स्वर्णाभां कर-पीडितारि-रसनां भ्राम्यद् गदां विभ्रमाम् ।
यस्त्वां ध्यायति यान्ति तस्य विलयं सद्योऽथ सर्वापदः ।। १९ ।।
देवि ! त्वच्चरणाम्बुजार्चन-कृते यः पीत-पुष्पाञ्जलिम्,
मुद्रां वाम-करे निधाय च पुनर्मन्त्री मनोज्ञाक्षरम् ।।
पीता-ध्यान-परोऽथ कुम्भक-वशाद् बीजं स्मरेत् पार्थिवम् ।
तस्यामित्र-मुखस्य वाचि हृदये जाड्यं भवेत् तत्क्षणात् ।। २० ।।
मन्त्रस्तावदलं विपक्ष-दलने स्तोत्रं पवित्रं च ते ।
यन्त्रं वादि-नियन्त्रणं त्रि-जगतां जैत्रं च चित्रं च तत् ।।
मातः ! श्रीबगलेति नाम ललितं यस्यास्ति जन्तोर्मुखे ।
त्वन्नाम-स्मरणेन संसदि मुख-स्तम्भो भवेद् वादिनाम् ।। २१ ।।
वादी मूकति रंकति क्षिति-पतिर्वैश्वानरः शीतति ।
क्रोधी शाम्यति दुर्जनः सुजनति क्षिप्रानुगः खञ्जति ।।
गर्वी खर्बति सर्व-विच्च जडति त्वद् यन्त्रणा यन्त्रितः ।
श्री-नित्ये, बगला-मुखि ! प्रतिदिनं कल्याणि ! तुभ्यं नमः ।। २२ ।।
दुष्ट-स्तम्भनमुग्र-विघ्न-शमनं दारिद्र्य-विद्रावणम् ।
भूभृत्-सन्दमनं च यन्मृग-दृशां चेतः समाकर्षणम् ।।
सौभाग्यैक-निकेतनं सम-दृशां कारुण्य-पूर्णेक्षणे ।
शत्रोर्मारणमाविरस्तु पुरतो मातस्त्वदीयं वपुः ।। २३ ।।
मातर्भञ्जय मद्-विपक्ष-वदनं जिह्वां च संकीलय ।
ब्राह्मीं यन्त्रय मुद्रयाशु-धिषणामुग्रां गतिं स्तम्भय ।।
शत्रूश्चूर्णय चूर्णयाशु गदया गौरांगि, पीताम्बरे !
विघ्नौघं बगले ! हर प्रणमतां कारुण्य-पूर्णेक्षणे ! ।। २४ ।।
मातर्भैरवि ! भद्र-कालि विजये ! वाराहि ! विश्वाश्रये !
श्रीविद्ये ! समये ! महेशि ! बगले ! कामेशि ! वामे रमे !
मातंगि ! त्रिपुरे ! परात्पर-तरे ! स्वर्गापवर्ग-प्रदे !
दासोऽहं शरणागतोऽस्मि कृपया विश्ववेश्वरि ! त्राहि माम् ।। २५ ।।
त्वं विद्या परमा त्रिलोक-जननी विघ्नौघ-संच्छेदिनी ।
योषाकर्षण-कारिणि त्रिजगतामानन्द-सम्वर्द्धिनी ।।
दुष्टोच्चाटन-कारिणी पशु-मनः-सम्मोह-सन्दायिनी ।
जिह्वा-कीलय वैरिणां विजयसे ब्रह्मास्त्र-विद्या परा ।। २६ ।।
मातर्यस्तु मनोरमं स्तवमिमं देव्याः पठेत् सादरम्
धृत्वा यन्त्रमिदं तथैव समरे बाह्वोः करे वा गले ।।
राजानो वरयोषितोऽथ करिणः सर्पामृगेन्द्राः खलास्ते वै यान्ति
विमोहिता रिपुगणा लक्ष्मीः स्थिरा सर्वदा ।। २७ ।।
अनुदिनमभिरामं साधको यस्त्रि-कालम्,
पठति स भुवनेऽसौ पूज्यते देव-वर्गैः ।।
सकलममल-कृत्यं तत्त्व-द्रष्टा च लोके,
भवति परम-सिद्धा लोक-माता पराम्बा ।। २८ ।।
पीत-वस्त्र-वसनामरि-देह-प्रेतजासन-निवेशित-देहाम् ।
फुल्ल-पुष्प-रवि-लोचन-रम्यां दैत्य-जाल-दहनोज्जवल-भूषां ।।
पर्यंकोपरि-लसद्-द्विभुजां कम्बु-हेम-नत-कुण्डल-लोलाम् ।
वैरि-निर्दलन-कारण-रोषां चिन्तयामि बगलां हृदयाब्जे ।। २९ ।।
चिन्तयामि सुभुजां श्रृणिहस्तां सद्-भुजांचसुर-वन्दित चरणाम् ।
षष्ठिसप्ततिशतैधृतशस्त्रैर्बाहुभिः परिवृतां बगलाम्बाम् ।। ३१ ।।
चौराणां संकटे च प्रहरणसमये बन्धने वारिमध्ये ।
वह्नौ वादे विवादे प्रकुपितनृपतौ दिव्यकाले निशायाम् ।।
वश्ये वा स्तम्भने वा रिपुवधसमये प्राणबाधे रणे वा ।
गच्छंस्तिष्ठस्त्रिकालं स्तवपठनमिदं कारयेदाशु धीरः ।। ३२ ।।
विद्यालक्ष्मीः सर्वसौभाग्यमायुः पुत्राः सम्पद् राज्यमिष्टं च सिद्धिः ।
मातः श्रेयः सर्ववश्यत्वसिद्धिः प्राप्तं सर्वं भूतले त्वत्परेण ।। ३३ ।।
गेहं नाकति गर्वितः प्रणमति स्त्रीसंगमो मोक्षति द्वेषी
मित्रति पातकं सुकृतति क्ष्मावल्लभो दासति ।।
मृत्युर्वैद्यति दूषणं गुणति वै यत्पादसंसेवनात्
तां वन्दे भवभीतिभञ्जनकरीं गौरीं गिरीशप्रियाम् ।। ३४ ।।
यत्-कृतं जप-सन्ध्यानं चिन्तनं परमेश्वरि !
श्रत्रुणां स्तम्भनार्थाय, तद् गृहाण नमोऽस्तु ते ।। ३५ ।।
ब्रह्मास्त्रमेतद् विख्यातं, त्रिषु लोकेषु दुर्लभम् ।
गुरु-भक्ताय दातव्यं, न देयं यस्य कस्यचित् ।। ३६ ।।
पीताम्बरां च द्वि-भुजां , त्रि-नेत्रां गात्र-कोज्ज्वलाम् ।
शिला-मुद्-गर-हस्तां च, स्मरेत् तां बगला-मुखीम् ।। ३७ ।।
सिद्धिं सध्येऽवगन्तुं गुरु-वर-वचनेष्वार्ह-विश्वास-भाजाम् ।
स्वान्तः पद्मासनस्थां वर-रुचिं-बगलां ध्यायतां तार-तारम् ।।
गायत्री-पूत-वाचां हरि-हर-मनने तत्पराणां नराणाम्,
प्रातर्मध्याह्न-काले स्तव-पठनमिदं कार्य-सिद्धि-प्रदं स्यात् ।। ३८ ।।

।। श्रीरुद्र-यामले उत्तर-खण्डे श्रीब्रह्मास्त्र-महा-विद्या श्रीबगला-मुखी स्तोत्रम् ।।

माता महाकाली शरणम्